Tridosha shloka
निरुक्ती
1 वात वात तत्र 'वा' गतिगन्धनयोरिति धातुः ।
2 पित्त - तप् सन्तापे ।
3 कफ- केन (जलेन) फलति इति कफाः ।
त्रिदोष - स्वरुप
वात- अव्यक्तः व्यक्तकर्मा च ।
पित्त- पित्तं आग्नेयम् ।
कफ श्लेष्मा सौम्यः ॥
त्रिदोष गुण
वात- तत्र रुक्षो लघुः शीतः खर सूक्ष्मश्चलो ऽ निलंः ।
पित्त - सस्नेह तीक्ष्णोष्णं लघु विस्त्रं सर द्रवम् ।
कफ- स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्ण मृत्स्नः स्थिरः कफः ।।
त्रिदोष स्थान
@वात दोष स्थान -
पक्वाशयकटिसक्थि श्रोत्र अस्थि स्पर्शनेंद्रियम्
स्थानम् वातस्य तत्रापि पक्वाधानं विशेषतः ।
@पित्त दोष स्थान-
नाभिः आमाशयः स्वेदो लसीका रुधिरं रसः ।
दृक स्पर्शनं च पित्तस्य नाभिस्तत्र विशेषतः
@कफ दोष स्थान -
उर कण्ठ शिरः क्लोम पर्वाणि आमाशयो रसः ।
मेदो घ्राणं च जिव्हा च कफस्य सुतराम उरः ।
वात कार्य -
■ वायुः तन्त्र यन्त्र धरः, प्राण उदान-समान व्यान अपानात्मा, प्रवर्तक चेष्टानाम् उच्च अवचानाम्, नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणाम् उद्योजकः, सर्वोन्द्रियार्थानाम् अभिवोढा, सर्व शरीर धातू व्युहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः प्रकृति शब्दस्पर्शयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्ष-उत्साह योनिः, समीरणो अग्नेः, दोष संशोषणः, क्षेप्ता बहिर्मलानाम्, स्थूलाणू स्त्रोतसां भेत्ता, कर्ता गर्भाकृतीनाम्, आयुषो अनुवृत्ति प्रत्ययभूतः । भवति अविकृतः ॥ ...च.सू.
पित्त कार्य-
■पित्त पक्त्युष्मदर्शनैः । क्षुत् तृट् रुचि प्रभा मेधा धी शौर्य तनुमार्दवैः । अ.ह.सू.
■अग्निरेव शरीरे पित्तान्तर्गतः कुपिता कुपितः शुभाशुभानि करोति । तद् यथा पक्तिम् अपक्तिम्, दर्शनम् अदर्शनम्, मात्रामात्रात्वम् उष्मणः प्रकृति विकृति वणों शौर्य भयं, क्रोधं हर्षः, मोहें प्रसाद इति एवम् आदीनोम् च अपराणि द्वंद्वानीति (च. सू.)
कफ कार्य-
■श्लेष्मा स्थिरत्वं स्निग्धत्व संधिबंध क्षमादिभिः । अ.ह.सू.
■ सोम एव शरीरे श्लेष्मान्तर्गतः कुपिता कुपितः शुभाशुभानि करोति । तद्यथा दादर्यं शेथिल्यम्, उपचय काय, उत्साह - आलस्य, वृषतां क्लीबतां, ज्ञानं अज्ञानं, बुध्दि मोहम् एवम् आदिनी च अपराणि द्वद्वानीति ॥ .(च.सू.)
वात दोष विकृति-
वातवृद्धि -
कार्श्य कार्षण्य उष्णकामित्वं कंप आनाह शकृत्ग्रहान् बल निद्रा इंद्रिय भ्रंश प्रलाप भ्रम दीनताः ।।
वातक्षय -
लिंग क्षीणे अनिले अंगस्य साद अल्पभाषिते हितम् संज्ञामोहस्तथा श्लेष्मवृध्दी उक्तामय संभवः ॥
पित्त दोष विकृति
पित्तवृद्धि -
पीत विट्मूत्र नेत्र त्वक्, क्षुत् - तृट् - दाह अल्पनिद्रता पित्तं वृध्दं तु कुरुते ।
पित्त क्षय
पित्ते मन्दो अनलः शीत प्रभाहानिः ॥
कफ दोष विकृति
कफवृध्दी -
श्लेष्मा अग्निसदनं प्रसेक आलस्य गौरवम् । श्वैत्य शैत्यश्लथांगत्वं श्वास कास अतिनिद्रता ॥
कफक्षय -
कफे भ्रमः । श्लेष्माशयानां शून्यत्वं हृद्रवः श्लथसंधिता ॥
Comments
Post a Comment